वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नृमेधः छन्द: पङ्क्तिः स्वर: पञ्चमः

अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ । विश्वा॑स्ते॒ स्पृध॑: श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥

अंग्रेज़ी लिप्यंतरण

anu te śuṣmaṁ turayantam īyatuḥ kṣoṇī śiśuṁ na mātarā | viśvās te spṛdhaḥ śnathayanta manyave vṛtraṁ yad indra tūrvasi ||

पद पाठ

अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ । विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥ ८.९९.६

ऋग्वेद » मण्डल:8» सूक्त:99» मन्त्र:6 | अष्टक:6» अध्याय:7» वर्ग:3» मन्त्र:6 | मण्डल:8» अनुवाक:10» मन्त्र:6